Go To Mantra

श्रत्ते॑ दधामि प्रथ॒माय॑ म॒न्यवेऽह॒न्यद्वृ॒त्रं नर्यं॑ वि॒वेर॒पः । उ॒भे यत्त्वा॒ भव॑तो॒ रोद॑सी॒ अनु॒ रेज॑ते॒ शुष्मा॑त्पृथि॒वी चि॑दद्रिवः ॥

English Transliteration

śrat te dadhāmi prathamāya manyave han yad vṛtraṁ naryaṁ viver apaḥ | ubhe yat tvā bhavato rodasī anu rejate śuṣmāt pṛthivī cid adrivaḥ ||

Pad Path

श्रत् । ते॒ । द॒धा॒मि॒ । प्र॒थ॒माय॑ । म॒न्यवे॑ । अह॑न् । यत् । वृ॒त्रम् । नर्य॑म् । वि॒वेः । अ॒पः । उ॒भे इति॑ । यत् । त्वा॒ । भव॑तः । रोद॑सी॒ इति॑ । अनु॑ । रेज॑ते । शुष्मा॑त् । पृ॒थि॒वी । चि॒त् । अ॒द्रि॒ऽवः॒ ॥ १०.१४७.१

Rigveda » Mandal:10» Sukta:147» Mantra:1 | Ashtak:8» Adhyay:8» Varga:5» Mantra:1 | Mandal:10» Anuvak:11» Mantra:1


Reads times

BRAHMAMUNI

इस सूक्त में परमात्मा द्युलोक पृथिवीलोक को वश में करता है, अन्तरिक्ष भी उसके अधीन काँपता है, विमानों विद्युत्तरङ्गों का आधार बना है, मेघ को वर्षाता है अन्नोपत्ति के लिए इत्यादि विषय हैं।

Word-Meaning: - (अद्रिवः) हे अद्रिवन्-आदारण बलवाले-छिन्नभिन्नकारक बलवाले परमात्मन् ! (ते प्रथमाय मन्यवे) तेरे परम वधसाधन के लिए (श्रत्-दधामि) श्रद्धा करता हूँ आदर करता हूँ (यत्) जिससे कि (नर्यं-वृत्रम् अहन्) नरहितकर आवरक मेघ का हनन करता है नीचे-गिराता है (अपः-विवेः) जलों को प्रवाहित करता है (यत्-त्वा-अनु) कि जो तेरे अधीन (उभे रोदसी भवतः) दोनों द्युलोक और पृथिवीलोक हैं (शुष्मात्) तेरे बल से (पृथिवी-चित्-रेजते) अन्तरिक्ष भी काँपता है ॥१॥
Connotation: - परमात्मा भी बड़ा बलवान् है, मेघ को छिन्न-भिन्न करके नीचे पानी बहाता है, द्युलोक पृथिवीलोक तेरी अधीनता में रहते हैं, अन्तरिक्ष में कम्पन विद्युत्सञ्चार, वायुप्रचार परमात्मा के शासन से होता है ॥१॥
Reads times

BRAHMAMUNI

अत्र सूक्ते परमात्मा द्यावापृथिव्यावधिकरोति तथान्तरिक्षं च तस्य शासने कम्पते चलायमानो भवति विमानानां विद्युत्तरङ्गानामाधार-भूतमन्तरिक्षं भवति मेघं वर्षत्यन्नोत्पत्तय इत्येवमादयो विषयाः सन्ति।

Word-Meaning: - (अद्रिवः) हे अद्रिवन् ! आदारण-बलवन् ! ‘छान्दसं रुत्वम्’ “अद्रिवः-अद्रिवन्-अद्रिरादृणात्येतेन” [निरु० ४।४] परमात्मन् ! (ते प्रथमाय मन्यवे) तव परमाय “प्रथमं मंसीय-परमं मंसीय” [निरु० ३।८] वधसाधनाय “मन्युर्मन्यतेर्वधकर्मणो वा” [निरु० १०।२९] (श्रत्-दधामि) सत्यं धारयामि-आदरं करोमि “श्रत् सत्यनाम” [निघ० ३।१०] (यत्) यतः (वृत्रं नर्यम्-अहम्) आवरकं मेघम् “वृत्रः-मेघनाम” [निघ० १।१०] नरहितकरं हन्ति (अपः-विवेः) जलानि प्रत्यागमयसि-प्रवाहयसि (यत् त्वा-अनु-उभे रोदसी भवतः) यत एवं त्वामनु-त्वदधीने द्वे द्यावापृथिव्यौ भवतः (शुष्मात्) तव बलात् “शुष्मं बलनाम” [निघ० २।९] (पृथिवी चित्-रेजते) अन्तरिक्षम् “पृथिवी अन्तरिक्षनाम” [निघ० १।३] कम्पते चिदपि, उभे रोदसी चिदपि कम्पेते ॥१॥